|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.18. अध्यायः 018
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
कुन्त्या स्वस्य वनगमनाध्यवसायेन विषीदतो युधिष्ठिरादीन्प्रति सहेतूपन्यासं समाश्वासनम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
कुन्त्युवाच।
एवमेतन्महाबाहो यथा वदसि पाण्डवः।
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः॥ 16-18-1(97684)
द्यूतापहृतराज्यानां पतितानां सुखादपि।
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया॥ 16-18-2(97685)
कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः।
यशश्च वो न नश्येत इति चोद्धरणं कृतम्॥ 16-18-3(97686)
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया॥ 16-18-4(97687)
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः।
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम्॥ 16-18-5(97688)
नागायुतसमप्राणः ख्यातविक्रमपौरुषः।
नायं भीमोत्ययं गच्छेदिति चोद्धरणं कृतम्॥ 16-18-6(97689)
भीमसेनादवरजस्तथाऽयं वासवोपमः।
विजयो नावसीदेत इति चोद्धरणं कृतम्॥ 16-18-7(97690)
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ।
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम्॥ 16-18-8(97691)
इयं च बृहती श्यामा तथाऽत्यायतलोचना।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं॥ 16-18-9(97692)
अपेक्षतामेव वो भीम वेपन्तीं कदलीमिव।
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम्॥ 16-18-10(97693)
दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत।
तदैव विदितं मह्यं पराभूतमिदं कुलम्॥ 16-18-11(97694)
निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा॥ 16-18-12(97695)
केशपक्षे परामृष्टा पापेन् हतबुद्धिना।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः॥ 16-18-13(97696)
युष्मत्तेजोविवृद्ध्यर्तं मया ह्युद्धरणं कृतम्।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः॥ 16-18-14(97697)
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम।
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम्॥ 16-18-15(97698)
न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव।
लभ्ते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति॥ 16-18-16(97699)
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा।
महादानानि दत्तानि पीतः सोमो यथाविधि॥ 16-18-17(97700)
नाहमात्मफलार्थं वै वासुदेवमचूचुदम्।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम्॥ 16-18-18(97701)
नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम्।
पतिलोकानहं पुण्यान्कामये तपसा पिभो॥ 16-18-19(97702)
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्॥ 16-18-20(97703)
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च॥ ॥ 16-18-21(97704)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टादशोऽध्यायः॥ 18 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-18-10 पश्यन्त्या मे तथा भीतां वेपन्तीमिति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|